चाणक्यः



वर्तमानात् २४०० वर्षेभ्यः पूर्वं भारते सुविस्तृतस्य महाजनपदस्य मगधस्य पालकाः नन्दकुलस्य क्रूराः राजानः। तदा धननन्दः मगधस्य नृपः। तस्य दुष्टक्रियाभिः जनाः पीडिताः तथैव बहवः दुष्टचरित्राः अपि। यथा राजा, तथा प्रजा, खलु!

मगधस्य राजधान्यां पाटलिपुत्रनगर्याम् आचार्यः चणकः दण्डनीतौ राजनीतौ अर्थशास्त्रे च कोविदः। अयं धननन्दस्य क्रूररीतीनां विषये जनान् बोधयित्वा तेषां नेत्राणि उन्मेषयितुं प्रयासम् अकरोत्। परं धननन्दस्य भटाः तं चणकं राजद्रोहाय कारागारे स्थापितवन्तः। तत्र अयं भोजनं त्यक्तवान्। क्षुत्पिपासाभ्याम् अयं दिवङ्गतः। 

धननन्दस्य क्रोधं प्रति भीत्वा केऽपि चणकस्य कुटुम्बस्य साहाय्यं न अकुर्वन्। क्षुधान्विता सा चणकपत्नी अपि देहं त्यक्तवती। निःसहायस्थितौ अनाथः सः चणकपुत्रः विष्णुगुप्तः तक्षशिलां गत्वा तत्र सुप्रसिद्धे महाविद्यालये सकलविद्यां सम्प्राप्य स्नातकपदवीं प्राप्तवान्। तत्पश्चात् सः तस्मिन् महाविद्यालये राजनीतिं शिक्षयन् आसीत्। 

यदा विष्णुगुप्तः मगधे ज्ञानसभायां भागं वोढुं गतवान्, एकस्यां वीथ्याम् अपश्यत् सः खेलतः बालकान्। तेषु एकः राजा शेषाः अमात्याः। दृश्यः आसीत् - एकेन मन्त्रिणा कञ्चन दूषकम् अधिकं दण्डं दातुं राजा प्रार्थितः। किमर्थमिति प्रश्नस्य प्रत्युत्तरम् आसीत् अपराधी मागधः नासीत् तर्हि। तत् श्रुत्वा राजा क्रुद्धः जातः मन्त्रिणं भर्त्सितवान् मम राज्ये जनपदीयाः सीमाः भारतं खण्डीकर्तुं न अर्हन्ति इति उक्तवान्। स्वमित्रैः खेलन् सः बालकः हीनकुलजातः अज्ञानी च। परं तस्य राष्ट्रभक्तिं सामर्थ्यं दृष्ट्वा विष्णुगुप्तः तं स्वेन सह तक्षशिलां नीतवान्। सः मगधस्य भावी राजा चन्द्रगुप्तः आसीत्।

 केभ्यश्चित् वर्षेभ्यः पश्चात् यवनशरणागताः गान्धारजनपदस्य सीमासु स्थिताः आसन्। गान्धारस्य नृपः आम्भीराजः तेषां प्रवेशमार्गं कण्टकपूर्णं कर्तुं प्रयासम् अकरोत्। परं यवननेत्रा अलक्षेन्द्रेण आम्भीराजस्य स्वपुत्रेण आम्भीकुमारेण सह सन्धिः कृतः। 
वस्तुतः तु अलक्षेन्द्रः दिग्विजयकाङ्क्षया आगतः। स्वकुलस्य अधःपतनं द्रष्टुम् अशक्तः सः आम्भीराजः आत्महत्यां कृतवान्। आम्भीकुमारस्य सन्धिना केकयराजस्य पर्वतेश्वरस्य स्वाभिमानेन धननन्दस्य निर्लिप्ततया अन्येषां जनपदानां अनेकतया भारतं पराजितम्। परं स्वदेशयात्रमार्गे पुनर्गमनसमये मध्ये अलक्षेन्द्रः मृतवान् भारते तस्य शासनधरस्य हत्या अभवत्। तत्पश्चात् भारते यवनानाम् अव्यवस्थया दिशाहीनतया तेषां शासनं पतितम्। विष्णुगुप्तेन भृतयोधाः राष्ट्रभक्ताः  यवनशासनस्य प्रतिकूले एकस्यां स्वतन्त्रतासेनायां योजिताः। 

धननन्देन एकदा अपमानितः विष्णुगुप्तः दृढसङ्कल्पम् अकरोत् यावत् अहं भारते यथा धननन्दः सर्वान् दुर्मार्गान् राज्ञः नाशयिष्यामि यदा भारतं पुनः गौरवं लभेत यदा अस्मिन् देशे एकता भवेत् तदैव मम चणकपुत्रस्य चाणक्यस्य तावत् पर्यन्तम् एव शिखा बद्धा भवति इति। 
स्वसैनिकान् मगधसेनायां मेलयित्वा धननन्दस्य राजनिवासे आक्रमणं कारयितवान् चाणक्यः। मार्गहीनः सः धननन्दः खेदम अनुभूय वनवासाय अगच्छत्। चन्द्रगुप्तः पट्टाभिषिक्तः। जनपदाः एकराष्ट्ररूपेण बद्धाः। भारतदेशे शान्तिः एकता सुव्यवस्था पुनरागताः। एतस्य विजयस्य सूत्रधारः तु एकः एव। स एव चाणक्यः।

(एषः श्रीमतः चन्द्रप्रकाशद्विवेदीवर्यस्य १९९१ वर्षे दूरदर्शने प्रसारितया धारावाहिन्या प्रेरितः लेखः।) 

Comments

Popular Posts